पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९५७
अष्टादशः सर्गः

अवलियासि सुश्रोणि यस्यास्ते मतिरीदृशी। वृद्धानां मृगशाबाक्षि भ्राजते पुण्यसंचयः॥२१॥
त्वं सर्वगुणसंपन्ना नार्हसे वक्तुमीदृशम् । त्रैलोक्यसुन्दरी भीरु यौवनं तेऽतिवर्तते॥२२॥
अहं लाङ्कापतिर्भद्रे दशग्रीव इति श्रुतः।तस्य मे भव भार्या त्वं भुङ्क्ष्व भोगान्यथासुखम्॥२३॥
फश्च तावदसौ यं त्वं विष्णुरित्यभिभाषसे । वीर्येण तपसा चैव भोगेन च बलेन च २४॥
न मया स समो भद्रे यं त्वं कामयसेऽङ्गने । इत्युक्तवति तस्मिंस्तु वेदवत्यथ साब्रवीत्॥२५॥
मा मैवमिति सा कन्या तमुवाच निशाचरम् । त्रैलोक्याधिपतिं विष्णुं सर्वलोकनमस्कृतम्॥२६॥
त्वदृते राक्षसेन्द्रान्यः कोऽवमन्येत बुद्धिमान् । एवमुक्तस्तया तत्र वेदवत्या निशाचरः॥२७॥
मूर्धजेषु तदा कन्यां कराग्रेण परामृशत् । ततो वेदवती क्रुद्धा केशान् हस्तेन साच्छिनत्॥२८॥
असिर्भूत्वा करस्तस्याः केशांश्छिन्नांस्तदाकरोत्।सा ज्वलन्तीव रोषेण दहन्तीव निशाचरम्॥२९॥
उवाचाग्निं समाधाय मरणाय कृनत्वरा । धर्षितायास्त्वयानार्य न मे जीवितमिष्यते ॥३०॥
रक्षस्तस्मात् प्रवेक्ष्यामि पश्यतस्ते हुताशनम् । यस्मातु धर्षिता चाहं त्वया पापात्मना वने॥३१॥
तस्मात्तव वधार्थं हि समुत्पत्स्ये ह्यहं पुनः । न हि शक्यं स्त्रिया हन्तुं पुरुषः पापनिश्चयः ॥३२॥
शापे त्वयि मयोत्सृष्टे तपसश्च व्ययो भवेत्। यदि त्वस्ति मया किंचित् कृतं दत्तं हुतं तथा॥३३॥
तस्मात्त्ययोनिजा साध्वी भवेयं धर्मिणः सुता।एवमुक्त्वा प्रविष्टा सा ज्वलितं जातवेदसम्॥ ३४॥
पपात च दिवो दिव्या पुष्पवृष्टिः समन्ततः । सैषा जनकराजम्य प्रसूता तनया प्रभो॥ ३५॥
तव भार्या महाबाहो विष्णुस्त्वं हि सनातनः । पूर्व क्रोधहतः शत्रुर्ययासौ निहतस्तया॥३६॥
उपाश्रयित्वा शैलाभस्तव वीर्यममानुषम् । एवमेषा महाभागा मर्त्येषूत्पत्म्यते पुनः॥३७॥
क्षेत्रे हलमुखोत्कृष्टे वेद्यामग्निशिखोपमा। एषा वेदवती नाम पूर्वमासीत् कृते युगे॥३८॥
त्रेतायुगमनुप्राप्य वधार्थ तम्य रक्षसः । उत्पन्ना मैथिलकुले जनकस्य महात्मनः॥३९॥
सीतोत्पन्ना तु सीतेति मानुषैः पुनरुच्यते ॥

इत्यार्षे श्रीमद्रामायणे बाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्

उत्तरकाण्डे वेदवतीशापो नाम सप्तदशः सर्गः



अष्टादशः सर्गः

मरुत्तविजयः

प्रविष्टायां हुताशं तु वेदवत्यां स रावणः।पुष्पकं तु ममारुह्य परिचक्राम मेदिनीम् ॥१॥