पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९५८
श्रीमद्वाल्मीकिरामायणे उत्तरकाण्डे

ततो मरुत्तं नृपतिं यजन्तं सह दैवतैः । उशीरबीजमासाद्य ददर्श स तु रावणः॥२॥
संवर्तो नाम ब्रह्यर्षिः साक्षाद्भ्राता बृहस्पतेः। याजयामास धर्मशः सर्वैदेवगणैर्वृतः ॥३॥
दृष्ट्वा देवास्तु तद्राक्षो वरदानेन दुर्जयम् । तिर्यग्योनिं समाविष्टास्तस्य दर्शनभीरवः॥४॥
इन्द्रो मयूरः संवृत्तो धर्मराजस्तु वायसः । कृकलासो धनाध्यक्षो हंसश्च वरुणोऽभवत्॥५॥
अन्येष्वपि गतेष्वेवं देवेष्वरिनिषूदन । रावणः प्राविशद्यज्ञं सारमेय इवाशुचिः ॥६॥
स च राजानमासाद्य रावणो राक्षसाधिपः । प्राह युद्धं प्रयच्छेति निर्जितोऽम्मीति वा वद॥७॥
ततो मरुत्तो नृपतिः को भवानित्युवाच तम् । अपहासं ततो मुत्तवा रावणो वाक्यमब्रवीत्॥८॥
'अकुतूहलभावेन प्रीतोऽस्मि तब पार्थिव । धनदस्यानुजं यो मां नावगच्छसि रावणम् ॥९॥
त्रिषु लोकेषु कोऽन्योऽस्ति यो न जानाति मे बलम् । भ्रातरं येन निर्जित्य विमानमिदमाहृतम्॥१०॥
ततो मरुतः स नृपस्तं रावणमथाब्रवीत् । धन्यः खलु भवान् येन ज्येष्ठो भ्राता रणे जितः॥११॥
न त्वया सदृशः श्लाध्यस्त्रिषु लोकेषु विद्यते। कं त्वं प्राक्केवलं धर्म चरित्वा लब्धवान् वरम्॥१२॥
श्रुतपूर्वं हि न मया भाषसे यादृशं स्वयम् । तिष्ठेदानीं न मे जीवन् प्रतियास्यसि दुर्मते ॥१३॥
अद्य त्वां निशितैर्बाणैः प्रेषयामि यमक्षयम् । ततः शरासनं गृह्य सायकांश्च नराधिपः ॥१४॥
रणाय निर्ययो क्रुद्धः संवर्तो मार्गमावृणोत । सोऽब्रवीत स्नेहसंयुक्तं मरुत्तं तं महानृषिः ॥१५॥
श्रोतव्यं यदि मद्वाक्यं संप्रहारो न ते क्षमः । माहेश्वरमिदं सत्रमसंप्राप्त कुलं दहेत ॥१६॥
दीक्षितस्य कुतो युद्धं क्रोधित्वं दीक्षिते कुतः । संशयश्च जये नित्यं राक्षसश्च सुदुर्जयः ॥१७॥
स निवृत्तो गुरोर्वाक्यान्मरुत्तः पृथिवीपतिः । विसृज्य सशरं चापं स्वस्थो मखमुखोऽभवत्॥१८॥
ततस्तं निर्जितं मत्वा घोषयामास वै शुकः । रावणो जयतीत्युच्चैर्हार्षान्नादं विमुक्तवान् ॥१९॥
तान् भक्षयित्वा तत्रस्थान् महर्षीन् यज्ञमागतान् । वितृप्तो रुधिरैस्तेषां पुनः संप्रययौ महीम् ॥२०॥
रावणे तु गते देवाः सेन्द्राश्चैव दिवौकसः । ततः स्वां योनिमासाद्य तानि सत्त्वानि चाब्रुवन् ॥२१॥
हर्षातदाब्रवीदिन्द्रो मयूरं नीलबर्हिणम् । प्रीतोऽस्मि तव धर्मज्ञ भुजङ्गाद्धि न ते भयम्॥२२॥
इदं नेत्रसहस्रं तु यत्त्वद्बर्हे भविष्यति । वर्षमाणे मयि मुदं प्राप्स्यसे प्रीतिलक्षणम् ॥२३॥
एवमिन्द्रो वरं प्रादान्मयूरस्य सुरेश्वरः । नीलाः किल पुरा बर्हा मयूराणां नराधिप ॥२४॥
सुराधिपाद्वरं प्राप्य गताः सर्वेऽपि बर्हिणः । धर्मराजोऽब्रवीद्राम प्राग्वंशे वायसं स्थितम् ॥२५॥
पक्षिस्तवास्मि सुप्रीतः प्रीतस्य वचनं शृणु । यथान्यैर्विविधै रोगैः पीड्यन्ते प्राणिनो मया॥२६॥
ते न ते प्रभविष्यन्ति मयि प्रीते न संशयः । मृत्युतस्ते भयं नास्ति वरान्मम विहंगम ॥२७॥
यावत्त्वां न वधिष्यन्ति नरास्तावद्भविष्यसि । एते मद्विषयस्था वे मानवाः क्षुद्धयार्दिता॥२८॥