पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९५६
श्रीमद्वाल्मीकिरामायणे उत्तरकाण्डे

अभिवाद्य महादेवमारुरोहाथ पुष्पकम् । ततो महीतले राम परिचक्राम रावणः ॥४८॥
क्षत्रियान् सुमहावीर्यान् बाधमान इतस्ततः । केचित्तेजस्विनः शूराः क्षत्रिया युद्धदुर्मदाः ॥४९॥
तच्छासनमकुर्वन्तो विनेशुः सपरिच्छदाः । अपरे दुर्जयं रक्षो जानन्तः प्राज्ञसंमताः ॥५०॥
जिताः स्म इत्यभाषन्त राक्षसं बलदर्पितम् ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्शविंशतिसहस्रिकायां संहितायाम्

उसरकाण्डे रावणनामप्राप्तिर्नाम षोडशः सर्गः



सप्तदशः सर्गः

वेदवतीशापः

अथ राजन् महावाहुविचरन् स महीतले । हिमवत्सानुमासाद्य परिचक्राम रावणः ॥१॥
तत्रापश्यत् स वै कन्यां कृष्णाजिनजटाधराम् । आर्षेण विधिना चैनां दीप्यन्ती देवतामिव ॥२॥
स दृष्ट्वा रूपसंपन्नां कन्यां तां सुमहाव्रताम् । काममोहपरीतात्मा पप्रच्छ प्रहसन्निव ॥३॥
किमिदं वर्तसे भद्रे विरुद्धं यौवनस्य ते । न हि युक्ता तवै तस्य रूपस्य तपसः क्रिया ॥४॥
रूपं तेऽनुपमं भीरु कामोन्मादकरं नृणाम् । न युक्तं तपसि स्थातुं निर्गतो ह्येष निर्णयः ॥५॥
कस्यासि किमिदं भद्रे कश्च भर्ता वरानने । येन संभुज्यसे भीरु स नरः पुण्यभाग्भुवि ॥६॥
पृच्छतः शंस मे सर्वं कस्य हेतोः परिश्रमः । एवमुक्ता तु सा कन्या रावणेन यशस्विनी ॥७॥
अब्रवीद्विधिवत् कृत्वा तस्यातिथ्यं तपोधन । कुशध्वजो मम पिता ब्रह्मर्षिरमितप्रभः ॥८॥
बृहस्पतिसुतः श्रीमान् बुद्ध्या तुल्यो बृहस्पतेः । तस्याहं कुर्वतो नित्यं वेदाभ्यासं महात्मनः ।९॥
संभूता वाङ्मयी कन्या नाम्ना वेदवती स्मृता । ततो देवाः सगन्धर्वा यक्षराक्षसपन्नगाः ॥१०॥
तेऽपि गत्वा हि पितरं वरणं रोचयन्ति मे । न च मां स पिता तेभ्यो दत्तवान् राक्षसर्षभ ॥११॥
कारणं तद्वदिष्यामि निशाचर निशामय । पितुस्तु मम जामाता विष्णुः किल सुरेश्वरः ॥ १२॥
अभिप्रेतस्त्रिलोकेशस्तस्मान्नान्यस्य मे पिता। दातुमिच्छति तस्मै तु तच्छ्रुत्वा बलदर्पितः ॥१३॥
दम्भुर्नाम ततो राजा दैत्यानां कुपितोऽभवत् । तेन रात्रौ शयानो मे पिता पापेन हिंसितः ॥१४॥
ततो मे जननी दीना तच्छरीरं पितुर्मम । परिष्वज्य महाभागा प्रविष्टा हल्यवाहनम् ॥१५॥
ततो मनोरथं सत्यं पितुर्नारायणं प्रति । करोमीति तमेवाहं हृदयेन समद्वहे ॥१६॥
इति प्रतिज्ञामारुह्य चरामि विपुलं तपः । एतत्ते सर्वमाख्यातं मया राक्षसपुङ्गव ॥ १७॥
नारायणो मम पतिर्न त्वन्यः पुरुषोत्तमात् । आश्रये नियमं घोरं नारायणपरीप्सया ॥ १८॥
विज्ञातस्त्वं हि मे राजन् गच्छ पौलस्त्यनन्दन । जानामि तपसा सर्वं त्रैलोक्ये यद्धि वर्तते ॥१९॥
सोऽब्रवीद्रावणो भूयस्तां कन्यां सुमहाव्रताम् । अवरुह्य विमानाग्रात् कन्दर्पशरपीडितः ॥२०॥