पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९५५
षोडशः सर्गः


पर्वतं तु समासाद्य वाक्यमाह दशाननः । पुष्पकस्य गतिश्छिन्ना यत्कृते मम गच्छतः ॥२३॥
तमिमं शैलमुन्मूलं करोमि तव गोपते । केन प्रभावेण भवो नित्यं क्रीडति राजवत् ॥ २४॥
विज्ञातव्यं न जानीते भयस्थानमुपस्थितम् । एवमुक्त्वा ततो राम भुजान् विक्षिप्य पर्वते ॥२५॥
तोलयामास तं शैलं स शैल: समकम्पत । चालनात् पर्वतस्यैव गणा देवस्य कम्पिताः ॥२६॥
चचाल पार्वती चापि तदाश्लिष्टा महेश्वरम् । ततो राम महादेवो देवानां प्रवरो हरः ॥२७॥
पादाङ्गुष्ठेन तं शैल पीडयामास लीलया। पीडितास्तु ततस्तस्य शैलस्याधोगता भुजाः ॥२८॥
विस्मिनाश्चाभयंस्तत्र सचिवाम्नस्य रक्षसः । रक्षसा तेन रोपाच्च भुजानां पीडनात्तदा । ॥२९॥
मुक्तो विराकः सहसा त्रैलोक्यं येन कम्पितम् । मेनिरे वज्रनिष्पेषं तस्यामात्या युगक्षये ॥३०॥
तदा वर्त्मस्थचलिता देवा इन्द्रपुरोगमाः । समुद्राश्चापि संक्षुब्धाश्चलिताश्चापि पर्वताः ॥ ३१॥
यक्षा विद्याधराः सिद्धाः किमेतदिति चाब्रुवन् । अथ ते मन्त्रिणस्तस्य विकोशन्तमथाब्रुवन् ॥
तोषयस्य महादेवं नीलकण्ठमुमापतिम् । तमृते शरणं नान्यं पश्यामोऽत्र दशानन ॥ ३३॥
स्तुतिभिः प्रणतो भूत्वा तमेव शरणं व्रज। कृपालुः शंकरस्तुष्टः प्रसादं ते विधास्यति ॥३४॥
एवमुक्तस्तदामात्यैस्तुष्टाव वृषभध्वजम् । सामभिर्विविधैः स्तोत्रैः प्रणम्य स दशाननः ॥ ३५॥
संवत्सरसहस्रं तु रुदतो रक्षसो गतम् । ततः प्रीतो महादेवः शैलाग्रे विष्ठितः प्रभुः ॥ ३६ ॥
मुक्त्वा चास्य मुजान् राम प्राह वाक्यं दशाननम् । प्रीतोऽस्मि तव वीर्यस्य शौण्डीर्याश्च दशानन ॥
शैलाकान्तेन यो मुक्तस्त्वया रावः सुदारुणः। यस्माल्लोकत्रयं चैतद्रावितं भयमागतम् ॥३८॥
तस्मात्त्वं रावणो नाम नाम्ना राजन् भविष्यसि । देवता मानुषा यक्षा ये चान्ये जगतीतले ॥३९॥
एवं त्वामभिधास्यन्ति रावणं लोकरावणम् । गच्छ पौलस्त्य विस्रब्धं पथा येन त्वमिच्छसि ॥४०॥
मया चैवाभ्यनुज्ञाता राक्षसाधिप गम्यताम् । एवमुक्तस्तु लङ्केशः शंभुना स्वयमब्रवीत् ॥४१॥
प्रीतो यदि महादेव वरं मे देहि याचनः। अवध्यत्वं मया प्राप्तं देवगन्धर्वदानवैः ॥४२॥
राक्षसैर्गुह्यकैर्नागैर्ये चान्ये बलवत्तराः । मानुषान्न गणे देव स्वल्पास्ते मम संमताः ॥४३॥
दीर्घमायुश्च मे प्राप्तं ब्रह्मणस्त्रिपुरान्तक । वाञ्छितं चायुष: 'शेषं शस्त्रं त्वं च प्रयच्छ मे ॥४४॥
एवमुक्तस्ततस्तेन रावणेन स शंकरः । ददौ खड्गं महादीप्तं चन्द्रहासमिति श्रुतम् ॥४५॥
आयुषश्चावशेषं च ददौ' भूतपतिस्तदा । दत्त्वोवाच ततः शंभुर्नावज्ञेयमिदं त्वया ॥४६॥
अवज्ञातं यदि हि ते मामेवैष्यत्यसंशयः । एवं महेश्वरेणैव कृतनामा स रावणः ॥४७॥