पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९५४
श्रीमद्वाल्मीकिरामायणे उत्तरकाण्डे

स्वतेजसा विपुलमवाप्य तं जयं प्रतापवान् विमलकिरीटहारवान् ।
रराज वै परमविमानमास्थितो निशाचरः सदसि गतो यथानलः ॥४५॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाम्ये चतुर्विशति सहस्रिकायं संहितायाम्

उत्तरकाण्डे पुष्पकहरणं नाम पञ्चदशः सर्गः


षोडशः सर्गः


रावणनामप्राप्तिः

स जित्वा धनदं राम भ्रातरं राक्षसाधिपः । महासेनप्रसूतिं तद्ययौ शरवणं महत् ॥१॥ १
अथापश्यद्दशग्रीवो रौक्मं शरवणं महत् । गभस्तिजालसंवीतं द्वितीयमिव भास्करम् ॥२॥
स पर्वतं समारुह्य कंचिद्रम्यवनान्तरम् । अपश्यत् पुष्पकं तत्र राम विष्टम्भितं तदा ॥३॥
विष्टब्धं पुष्पकं दृष्ट्वा ह्यगमं कामगं कृतम् । अचिन्तयद्राक्षसेन्द्रः सचिवैस्तैः समावृतः ॥४॥
किंनिमित्तं चेच्छया मे नेदं गच्छति पुष्पकम् । पर्वतस्योपरिम्थस्य कर्मेदं कस्य्चिद्भवेत् ॥५॥
ततोऽब्रवीत्तदा राम मारीचो बुद्धिकोविदः । नेदं निष्कारणं राजन् पुष्पकं यन्न गच्छति ॥६॥
अथवा पुष्पकमिदं धनदानान्यवाहनम् । अनी निःम्पन्दमभवद्धनाध्यक्षविनाकृतम् ॥७॥
इति वाक्यान्तरे तस्य करालः कृष्णपिङ्गलः । वामनो विकटो मुण्डी नन्दी प्रह्वभुजो बली ॥८॥
ततः पार्श्वमुपागम्य भवम्यानुचरोऽब्रवीत् । नन्दीश्वरो वचश्चेदं राक्षसेन्द्रमशक्तिः ॥९॥
निवर्तस्व दशग्रीव शैले क्रीडति शंकरः । सुपर्णनागयक्षाणां देवगन्धर्वरक्षसाम् ।१०॥
सर्वेषामेव भूतानामगभ्यः पर्वतः कृतः । तन्निवर्तस्वा दुर्बुद्धे मा विनाशमवाप्स्यसि ॥११॥
इति नन्दिवचः श्रुत्वा क्रोधात् कम्पिनकुण्डलः । रोषातु ताम्रनयनः पुष्पकादवरुह्य सः ॥१२॥
कोऽयं शंकर इत्युक्त्वा शैलमूलमुपागतः। सोऽपश्यन्नन्दिनं तत्र देवस्यादूरतः स्थितम् ॥१३॥
दीसं शूलमवष्टभ्य द्वितीयमिव शंकरम् । तं दृष्ट्वा वानरमुखमवज्ञाय स राक्षसः ॥१४॥
प्रहासं मुमुचे तत्र सतोय इव तोयदः । तं क्रुद्धो भगवानन्दी शंकरस्यापरा तनुः ॥१५॥
अब्रवीतत्र तद्रक्षो दशाननमुपस्थितम् । यस्माद्वानररूपं मामवज्ञाय दशानन ॥१६॥
अशनीपातसंकाशमुपहासं प्रमुक्तवान् । तस्मान्मद पसंपन्ना मद्वीर्यसमतेजसः ॥१७॥
उत्पत्स्यन्ति वधार्थ हि कुलस्य तब वानराः । नखदंष्ट्रायुधाः करा मनःसंपातरंहसः ॥१८॥
युद्धोन्मत्ता बलोद्रिक्ताः शैला इव विसर्पिणः । ते तव प्रबलं दर्पमुत्सेधं च पृथग्विधम् ॥१९॥
व्यपनेष्यन्ति संभूय सहामात्यसुतस्य च । किं त्विदानीं मया शक्यं हन्तुं त्वां हे निशाचर ॥२०॥
न हन्तव्यो हतम्त्वं हि पूर्वमेव स्वकर्मभिः । इत्युदीरितवाक्ये तु देवे तस्मिन् महात्मनि ॥२१॥
देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्च्युता । अचिन्तयित्वा स तदा नन्दिवाक्यं महाबलः ॥२२॥