पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

38 श्रीमद्भगवद्गीता गीतार्थ संग्रहोपेता अन संग्रहश्लोकः- अहो नु चेतसश्चिता गतिस्त्यागेन यत्किल । आरोहयत्येव विषयाञ्छ्यंस्तांस्तु परित्यजेत् ॥ २ ॥ - ॥ इति श्रीमहामाहेश्वराचार्यवर्य राजानकाभिनवगुप्तपादविरचिते श्रीमद्भगवद्गीतार्थसंग्रहे द्वितीयोऽध्यायः ॥ ॥ श्रीमद्भगवद्गीतार्थसंग्रहटिप्पणी | श्लो. ४-६ (व्या) एतच्चेत्यादिना फलविशेषाभिसन्धा- नमपि व संभवतीति दर्शयति ॥ श्लो. ८ (मू) अवाप्येति । अवाप्य स्थितस्य ममेति संबन्धः ॥ श्लो. ११ (मू) विसंज्ञ इति । सम्यक् ज्ञायते अनेन इति संज्ञं सम्यग्ज्ञानम्; तस्माद्विनिवृत्तः विसंज्ञः सम्यग्ज्ञानशून्य इत्यर्थः ॥ श्लो. १४ (व्या) न शोचति इति । अनेनेदं सूचितमिव- देहिन इति पद्ये चतुर्थपादे आचार्य: प्रायशः 'न शोचति' इति पपाठ, न तु 'व मुह्यति' इति यश्च सार्वत्रिकः पाठः ॥ श्लो. १५ (व्या) एतद्युक्तानिति । पूर्वोक्तावस्थाविशेष- युक्तान् इत्यर्थः । वक्ष्यति च समनन्तरं तथैव ॥ 1. B,N गतिर्योगेन 2. B, N तामपरित्यजेत्