पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयोऽध्यायः अत एव - आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् । तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ॥७२॥ आपूर्यमाणमिति । योगी न कामार्थं बहिर्धावति, अपि तु इन्द्रियधर्मतया; तं1 विषया अनुप्रविशन्तो न तरङ्गयन्ति नदीवेगा इवोदधिम् । एवं तृतीयो निर्णीतः ॥ ७२ ॥ 37 विहाय कामान् यः सर्वान् पुमांश्चरति निस्पृहः । निर्ममो निरहंकारो स शान्तिमधिगच्छति ॥ ७३ || विहायेति । स योगी सर्वकामसंन्यासित्वात् शान्तिरूपं मोक्षमेति ॥ ७३ ॥ 2. एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति । स्थित्वास्यामन्तकालेऽपि ब्रह्म निर्वाणमृच्छति ॥ ७४ ॥ ॥ इति श्रीमद्भगवद्गीतायां द्वितीयोऽध्यायः ॥ एषेति । एषा असौ ब्रह्मसत्ता, यस्यां क्षणमात्रं स्थित्वा अवस्थिति प्राप्य शरीरभेदात् परं ब्रह्म आप्नोति । इति प्रश्न- चतुष्टयं निर्णीतमिति ॥ ७४ ॥ || शिवम् || 1. B,N omit तं and read विषयानुप्रविशन्तो नतरां यान्ति (Bन तरंगयन्ति) S, B, N परमं