पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता योगी च सर्वव्यवहारान् कुर्वाणोऽपि लोकोत्तर इति विरूपयता परमेश्वरेण संक्षिप्यास्य स्वरूपं कथ्यते- 36 या निशा सर्वभूतानां तस्यां जगति संयमी । यस्यां जाग्रति भूतानि सा रात्रिः पश्यतो मुनेः ॥ ७१ ॥ या विशेति । या सर्वेषां भूतानां निशा मोहिनी माया तस्यां मुनिजगत्ति 'कथमियं हेया' इति । यस्यां च दशायां लोको जगत्ति नानाविधां चेष्टां कुरुते, सा मुनेः रातिः यतोऽसौ व्यवहारं प्रत्यबुद्धः । - एतदुक्तं भवति येयं माया खलु, तस्या द्वे रूपे मोह- कत्वं' नाम रूपं सुखतन्त्र 'ताभासनं च । तव्र लोकः प्राच्यं स्वरूपमस्या अपरामृश्येव द्वितीयस्मिन् रूपे निबद्धस्मृतिरास्ते । योगी तु तद्विपरीतस्तदीयं मोहकत्वं तदुन्मूलनाय पश्यति । सुख- तन्त्रतां च नाद्रियते?, पश्यन् सम्यग्ज्ञानी । मिथ्याज्ञानोप- घाताच्च सुखतन्त्रतानादर: । [एवं च] पश्यत एव सा रात्रि- रिति चित्रम् । विद्यायां वा बुध्यते' योगी, यत्न सर्वोऽपि 10 विमूढः; अविद्यायां त्वबुद्धः यत्र जनः प्रबुद्ध इत्यपि चितम् ॥७१॥ 1. S omits अपि 2. K मोहनी S fafaut 3. 4. B.Nomit द्वे रूपे 5. B, N मोहकत्वे 6. B, N तन्तु for तन्त्र hereinafter 7. Naretaa 8. S -तन्त्रतायां नादरः 9. S,K - यां चावधते 10. S, B,N omit अपि