द्वितीयोऽध्यायः श्लो. १७ (व्या) भावः सत्ता || श्लो. १९ (मू) नित्यस्येति । नित्यत्वं च ध्वंसाप्रतियो गित्वम् । (व्या) स्थूलेत्यादि । अनेन 'अन्तवन्त' इत्यस्यार्थी वर्णितो वेदितव्यः । विनाशिन इति । विशिष्टो नाश एषामित्यर्थः । वैशिष्ट्यं च स्थूलत्वप्रतिद्वंद्वि सूक्ष्मत्वम् । तदेव दर्शयति प्रति क्षणमित्यादिना । तथा च अन्तवन्तः विनाशिनः इत्यपौनरुक्त्यं बोध्यम् ॥ 39 श्लो. २१ (व्या) न नेति द्वौ नजौ प्रकृतार्थं दृढीकुरुतः । तच्च दर्शयति अपि तु भृत्वैवेति । एवमुत्तरत्रापि || श्लो. २४-२६ (व्या) तेन संबध्यते इत्यर्थः इतीदमधिक- मनपेक्षमिव ॥ श्लो. २९ (व्या) यस्तावदित्यादि । यः पुरुषस्तावत् अस्य शोचनीयतया अभिमतस्य भावस्य विषये शोचकः शोचनकर्ता तं पुरुषं प्रति उद्दिश्य, एष भावः इत्याद्यर्थः । विचित्रस्वभावतयेति । तृतीयार्थ: अवच्छिन्न प्रकारताकत्वं दर्शनेऽन्वेति ।। श्लो. ३६ (मू) एषाम् इति काश्मीरपाठोडन समादृतः ॥ श्लो. ४० (व्या) एषैव च यथा योगे कर्मकौशलायेति । अनेन च द्वयं सूचितमिव । प्रकृतगीताश्लोके द्वितीयवादे 'योगे यथा शृणु' इति पाठः प्रायश आचार्याभिमत इति; तथा सांख्ये योगे इति सप्तम्यौ निमित्तात् कर्मयोगे बोध्ये इति च ॥ श्लो. ४३-४५ (व्या) तथैवेति । मूले तच्छब्देन (श्लो. ४५) पूर्वोक्ता (श्लो. ४३) पुष्पिता वाक् परामृष्टा, तादृश
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१००
दिखावट