पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

40 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपैता वाचश्च तत्रैव प्रकृष्टवदनक्रियाकर्मत्वमुक्तमिति तस्या वस्तुतः कल्पितत्वमेव भगवदभिमतमिति कृत्वा तदर्थमाह - स्वयंकल्पितया वेदवाचा इति । तत्तदर्थवादानुरोधेन विधिवाक्यानि कल्पयन्त्यपि कर्मिण इति प्रसिद्धम् । फलनिश्चयत्वादिति । फलनिश्चयासत्त्वा- दिति विवक्षितमिव । श्लो. ४६ (व्या) करणेनेति करणे तृतीया । विशेषेण इस्य- नेव विषय शब्दगतवीत्युपसर्गार्थमाह || श्लो. ४८ (व्या) यत् अप्रार्थ्यमानं ज्ञानं नानिच्छोस्तत् इति । अत्र 'यत् प्रार्थ्यमानं फलं ज्ञातं, नानिच्छोस्तत्' इति; 'फलं न ज्ञानेच्छोस्तत्' इति वा; 'फलं वानिच्छोस्तत्' इति वा विवक्षितमिव प्रतिभाति ॥ श्लो. ५१ (व्या) हेतोरिति । तथा च बुद्धियोगात् इति मूले पञ्चमी 'विभाषा गुणेऽस्त्रियाम्' (PA,IIii, 25) इत्यनेन बोध्येति भावः ॥ श्लो. ५४-५५ (व्या) अभिलष्यमाणस्येति । श्रोतव्यं श्रुतं चागमं कर्मठा अभिलष्यन्तेतमामिति प्रसिद्धमेतत् ॥ श्लो. ५६ (व्या) उक्तः, उक्तप्रायः । प्रयोगलक्षणमिति । प्रयोगः प्रकृष्टो योगः अवयवशक्तिसंबन्धः स एव लक्षणं ज्ञापकं यस्य तम् अर्थमिति । अवयवशक्तिमातबोधितमिति यावत् । अथ वा प्रकृष्टो योगः बुद्धियोगः यश्च प्रकृतः; स एव लक्षणं स्वरूपं यस्य सः; तमर्थमिति । बुद्धियोगयुक्तमिति पर्यवसितार्थः । अत एव स्थिरधीर्योोगी इत्यपि वक्ष्यति ।।