पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयोऽध्यायः 27 नेहेति । इह अस्यां बुद्धो अतिक्रमेण अपराधेत प्रमादेव वाशो न भवति, प्रमादस्याभावात् । यथा च परिमितेल श्री- खण्डकणेन ज्वालायमानोऽपि तैलकटाहः सद्यः शीतीभवति३, एवं अनया स्वल्पयापि' योगबुद्धया महाभयं संसाररूपं विवश्यति ॥ ४१ ॥ व चैषा बुद्धिरपूर्वानीयते । किं तर्हि ? व्यवसायात्मिका बुद्धिरेकैव कुरुनन्दन । बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ॥ ४२ ॥ व्यवसायात्मिकेति । व्यवसायात्मिका सर्वस्यैकैव' सहजा' धीः निश्चेतव्यवशात् तु बहुत्वं गच्छति ॥ ४२ ॥ तथाच - यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः । वेदवादपराः पार्थ नान्यदस्तीति वादिनः ॥ ४३ ॥ कामात्मानः स्वर्गपराः जन्मकर्मफलेप्सवः । क्रियाविशेषबहुला भोगैश्वर्यगतीः प्रति ॥ ४४ ॥ भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् । व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥ ४५ ॥ S,K omit इह S,N तथा च 3. N शीतो भवति 1. 2. 4. S omits अपि 5. S सर्वस्यैव 6. N omits सहजा