पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

26 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपैता अवाच्यवादांच बहून् वदिष्यन्ति तवाहिताः । निन्दन्तस्तव सामर्थ्य ततो दुःखतरं नु किम ॥ ३७॥ इतो वा प्राप्स्यसि स्वर्ग जित्वा वा मोक्ष्यसे महीम् । तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्रयः ॥ ३८ ॥ अथ चेत्यादि । श्लोकपञ्चकमिदम् 'अभ्युपगम्यवादरूप- मुच्यते 'यदि लौकिकेन व्यवहारेणास्ते भवान् तथाप्यवश्यानु- ष्ठेयमेतत्' ॥ ३४-३८ ॥ सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ । ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥ ३९ ॥ सुखदुःखे इति । तव तु स्वधर्मतयैव कर्माणि कुर्वतो न कदाचित् पापसंबन्धः ॥ ३९ ॥ एषा तेऽभिहिता सांख्ये बुद्धियोंगे यथा शृणु (१) । बुद्धया युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥ ४० ॥ एषा त इति । एषा च तव सांख्ये सम्यग्ज्ञाने बुद्धि- निश्चयात्मिका उक्ता । एषैव च यथा योगे कर्मकौशवाय उच्यते2 तथैव शृणु; यया बुद्धया कर्मणां बन्धकत्वं त्यक्ष्यसि । न हि कर्माणि स्वयं बध्नन्ति, जडत्वात् । अतः स्वयमात्मा कर्मभिः वासनात्मकैरात्मानं बध्नाति ॥ ४० ॥ नेहातिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते । स्वल्पमध्यस्य धर्मस्य त्रायते महतो भयात् ॥ ४१ ॥ 1. B,N उपगम्य 2. S, K कौशले यो ( Sय ) ज्यते