पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयोऽध्यायः 23 बेहस्य क्षणमात्रमप्यनवस्थायित्वात् । एवंभूतं विदित्वा एन- पात्मानं शोचितुं नार्हसि ॥ २४-२६ ॥ अथ वैनं नित्यजातं नित्यं वा मन्यसे मृतम् । तथापि त्वं महाबाहो नैनं शोचितुमर्हसि ॥ २७ ॥ अथ वैनमिति । अथाप्येनं देहं मन्यसे नित्यजातं, प्रवाह स्याविनाथात्; तथापि न शोच्यता। क्षणिकप्रक्रिया वा नित्य- बिनाशिनम्; तथापि का शोच्यता ? एवं यद्यात्मनः तत्तद्देह- योगवियोगाभ्यां नित्यजातत्वं नित्यमृतत्वं वा मन्यसे, तथापि सर्वथा शोचनं 2 प्रामाणिकानामयुक्तम् ॥ २७ ॥ न चैतदन्यथा अनित्यानित्यत्वमुपपत्तिमत् । यतः 4- जातस्य हि ध्रुवो मृत्युः ध्रुवं जन्म मृतस्य च । तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥ २८ ॥ जातस्येति । जन्मनः अनन्तरं नाशः, नाशादवन्तरं जन्मेति चक्रवदयं जन्ममरणसन्तान इति किंपरिमाणं शोच्य- ताम् इति ॥ २८ ॥ अपि च- अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत । अव्यक्त निधनान्येव तत्र का परिदेवना ॥ २९ ॥ 1. 2. 3. 5. 5, S,K तद्देहयोग (K संयोग) B, N प्राकरणि- N, K नित्यत्वानित्यत्वम् S adds कुत इत्याह after यतः N शोच्यतायाम्