पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्भगवद्गीता गोतार्थ संग्रहोपेता वेदेति । य एनमात्मानं प्रबुद्धत्वात् जानाति 'स न हन्ति नस हन्यते' इति तस्य कथं बन्धः १ ॥ २२ ॥ 22 वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि । तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही ॥२३॥ वासांसि इति । यथा वस्त्राच्छादितः तद्वस्त्रनाशे समुचित- वस्त्रान्तरावृतो न विनश्यति2, एवमात्मा देहान्तरावृतः ॥ २३ ॥ नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः । न चैनं क्वेदयन्त्यापो न शोषयति मारुतः ॥ २४ ॥ अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोग्य एव च । नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥ २५ ॥ अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥ २६ ॥ । नैनमित्यादि । नास्य नाशकारणं शस्त्रादि किंचित्करम् । चिदेकस्वभावस्य अनाश्रितस्य निरंशस्य + स्वतन्त्रस्य स्वभा- वान्तरापत्त्याश्रयविनाशावयव विभाग विरोधिप्रादुर्भावादिक्रमेण नाशयितुमशक्यत्वात् । न च देहान्तरगमनमस्य अपूर्वम्, देहा- न्वितोऽपि' सततं देहान्तरं गच्छति, तेन संबध्यते इत्यर्थः । 1. Nomits इति-बन्धः 2. N omits यथा --न विनश्यति । 3. B, N, K add निरपेक्षस्य after अनाश्रितस्य 4. Nomits निरंशस्थ; S adds निरवयवस्य after निरंशस्य 5. S, B प्रक्रमेण 6. B,N अपूर्वदेहान्नित्योऽपि