पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

16 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता नैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः । यानेव हत्वा न जिजीविषामस्ते नः स्थिताः प्रमुखे धार्तराष्टाः ॥६॥ कथमित्यादि । 'कथं भीष्ममहं संख्ये द्रोणं च' इत्यादिवा 'भुञ्जीय भोगान्' इत्यनेन च कर्मविशेषानुसन्धानं फलविशेषा- नुसन्धानं च यतया पूर्वपक्षे सूचयति । 'नैतद्विद्मः' इत्यनेन च कर्मविशेषानुसन्धानमाह । निरनुसन्धानं तावत् कर्म नोपपद्यते । न च पराजयमभिसन्धाय युद्धे प्रवर्तते । जयोऽपि वश्चायमनर्थ एव । तदाह - 'अहत्वा गुरून् भैक्षमपि चतुं श्रेयः । एतच्च निश्चेतुमशक्यं किं जयं कांक्षामः, किं वा पराजयम्, जयेऽपि बन्धूनां विनाशात् ॥ ४६॥ कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसंमूढचेताः । यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥ न हि प्रपश्यामि ममानुपद्यात् यच्छोक पुच्छोषणमिन्द्रियाणाम् । अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम् ॥ ८ ॥ संजय उवाच - एवमुक्त्वा हृषीकेशं गुडाकेशः परंतप । न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ॥ ९ ॥ तमुवाच हृषीकेशः प्रहसन्निव भारत । सेनयोरुभयोर्मध्ये सीदमानमिदं वचः ॥ १० ॥ 1. 2. 3. S,K omit : B.N omit पूर्वपक्षे S.B, K निरभिसन्धानं