सामग्री पर जाएँ

पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संजय उवाच- तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् । सीदमानमिदं वाक्यमुवाच मधुसूदनः ॥ १ ॥ श्रीभगवानुवाच - द्वितीयोऽध्यायः कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् । अनार्यजुष्टम स्वर्ग्यम कीर्तिकरमर्जुन ॥ २ ॥ कुत इति । आदो लोकव्यवहाराश्रयेणैव भगवान् अर्जुनं प्रतिबोधयति । क्रमात्तु ज्ञानं करिष्यति, इत्यतः अनार्यजुष्ट- मित्याह ॥ २ ॥ क्लैब्यादिभिनिर्भर्त्सनमभिदधत् अधर्मे तव धर्माभिमा- नोऽयम्' इत्यादि दर्शयति- मा क्लैव्यं गच्छ कौन्तेय नैतत्त्वय्युपपद्यते । क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥ ३ ॥ अर्जुन उवाच - कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन । इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥ ४ ॥ गुरूनहत्वा हि महानुभावान् श्रेयश्चर्तुं मैक्षमपीह लोके । नत्वर्थकामस्तु गुरू निहत्य भुञ्जीय भोगान् रुधिरप्रदिग्धान् ॥ ५ ॥ 1. N, K (n) omit अयम्