पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विद्याविद्यात्मनोः द्वयोरभिभाव्याभिभावकात्मत्वं 4 प्रद- शयितुं प्रथमाध्यायप्रस्तावः । न हि अनुत्पन्न विद्याले शावकाश उपदेशभाजनम्, नापि निर्मूलितस प्रस्ताविद्याप्रपञ्च:5; एककोटि- विश्रान्तस्य तु ततः कोटेश्च्यावयितुमशक्यत्वात् । अज्ञविपर्यस्त- योस्तूपदेश्यत्वं यदुच्यते, तत् क्वचिदेव । तथा तु औन्मुख्या 'उपदेष्टव्येऽर्थे सन्दिग्धतैव । अत एव संशयनिर्णोदक एवोपदेश इति विद्याविद्याङ्गसंघट्टमयः संशय [इति च] उच्यते । देवा- सुरसृष्टिश्च विद्याविद्यामयीति तत्कथोपक्रमणमेव मोक्षमार्गो- पदेशनम् । ज्ञानं च प्रधानं कर्माणि च अपहर्तव्यानि 7 इति, कर्मणां ज्ञानविष्ठतया क्रियमाणानामपि न बन्धकत्वमिति, ज्ञान [स्य] प्राधान्यम् नान्तरीयकत्वं तु कर्मणाम्, न तु ज्ञान- 1 531 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता यद्यप्यन्यप्रसङ्गेषु मोक्षो नामात्र गीयते । तथापि भगवद्गीताः सम्यक तत्प्राप्तिदायकाः ॥ ४ ॥ तास्वन्यैः 2प्राक्तनैर्व्याख्याः कृता यद्यपि भूयसा । न्याय्यस्तथाप्युद्यमो मे तद्गूढार्थप्रकाशकः३ ॥ ५ ॥ भट्टेन्दुराजादाम्नायं विविच्य च चिरं धिया । कृतोऽभिनवगुप्तेन सोऽयं गीतार्थसंग्रहः || ६ || 1. S - दायिकाः 2. 3. 4. 5. 6. 7. B, N प्राकृतैर्व्याख्या: S, B प्रदर्शकः S, B विभावकत्वं Sस्तविद्या- Sष्टव्ये त्वर्थे S परिहर्त्तव्यानि Apoten