पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ओम् श्रीमद्भगवद्गीता श्रीमदाचार्या भिनवगुप्तपादप्रणीतगीतार्थसंग्रहाभिषय- व्याख्योपेता प्रथमोऽध्यायः य एष विततस्फुरद्विविधभाव चक्रात्मकः परस्परविमेदवान् विषयतामुपागच्छति । यदेकमयभावनावशत एत्य भेदान्वयं स शम्भुरशिवापहो जयति बोधभासां निधिः ॥ १ ॥ द्वैपायनेन सुनिना यदिदं व्यधायि शास्त्रं सहस्रशतसंमितमत्र मोक्षः । प्राधान्यतः फलतया प्रथितस्तदन्य- धर्मादि तस्य परिपोषयितुं प्रगीतम् ॥ २ ॥ मोक्षश्र नाम सकलाप्रविभाग रूपे सर्वज्ञ सर्वकरणादिशुभस्वभावे । आकांक्षया विरहिते भगवत्यधीशे नित्योदिते लप इयान् प्रथितः समासात् ॥ ३ ॥ 1. S commences : श्रेयसे स्वस्ति श्रीगणेशाय नमः । B. ओं श्रीगुरवे शिवायों नमः । श्रीगणपतये नमः । श्रीरस्तु । 2. S, B,N-रूप-