सामग्री पर जाएँ

पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमोऽध्यायः कर्मणी समशीर्षतया समुच्चीयेते इत्यत्व तात्पर्यम् । एवमेव मुनेरभिप्रायं यथास्थानं प्रतिपादयिष्यामः इति किमन्यैस्तत्त्व- दर्शवविघ्नमात्रफलैर्वाग्जिालैः ॥ धृतराष्ट्र उवाच- धर्मक्षेत्रे कुरुक्षेत्रे सर्वक्षत्रसमागमे । मामकाः पाण्डवाश्चैव किमकुर्वत संजय ॥ १ ॥ धर्मक्षेत्र इति । अन केचित् व्याख्याविकल्पमाहुः - कुरूणां करणानां यत् क्षेत्रमनुग्राहकं अतएव सांसारिकधर्माणां 3 सर्वेषां क्षेत्रम् उत्पत्ति निमित्तत्वात् । 'अयं स परमो धर्मो यद्योगेनात्मदर्शनम्' (या. स्मृ. I, 8 ) इत्यस्य च धर्मस्य क्षेत्रम्; समस्तधर्माणां क्षयात् अपवर्गप्राप्त्या वाणभूतं तदधिकारिशरीरम् । सर्वक्षत्राणां, क्षदे: हिसार्थत्वात्, परस्परं वध्यघातकभावेन वर्तमानानी रागवैराग्यक्रोधक्षमा- प्रभृतीनां समागमो यत्न, तस्मिन् स्थिता ये मामका अविद्या- पुरुषोचिता अविद्यामयाः संकल्पाः; पाण्डवाः शुद्धविद्यापुरुषो- चिता विद्यात्मानः; ते किमकुर्वत ? कैः खलु के जिताः ? इति । मायक: अविद्यापुरुष:; पाण्डु:, शुद्धः ॥ १ ॥ S, B, N समतया S एकमेव च 1. 2. 3. S 4. S परस्परवध्य - सांसारिकत्वधर्माणां