पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/४०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

347 विमर्शरूपं पश्यति; कथं पश्यति ? एवं पश्यति- 'सर्वं, वस्तु- जातं सर्वं कर्मभूतं, मयि कर्तरि (अस्मच्छब्दो योगिनं परा- मृशति) पश्यति सति, मां कर्मभूतं, सर्वं वस्तुजातं कर्तृभूतं पश्यति' इति पश्यति । तस्य योगिनः अहं परमात्मा न प्रणश्यामि, सर्वत्र सर्वभावेषु तं प्रति तस्य भासमानत्वात् । स चापि मे परमात्मनो न प्रणश्यति, सर्वभावरूपेण परमात्मना कर्ता तस्य योगिनो दृश्यमानत्वात् । तदुक्तं शिवदृष्टौ- मदात्मना घटो वेत्ति वेद्मयहं वा घटात्मना । सदाशिवात्मना वेद्मि स वा वेत्ति मदात्मना ।। (५.१०५) इति । अयं च शिवाद्वैतवादिनां घण्टापथः । Page 129. At the end of the first paragraph add : अधिकमाङ्लभाषानुवादविचारे । एवं च मोहमायावशंगतैः अपरेति जडेति च ज्ञायमाना पृथिव्यादिजगदाकारेण भासमाना येयं प्रकृतिः ततोऽनन्यैव अभिन्नैव जीवरूपा अहंविमर्शात्मिका परा चिदाख्या में प्रकृति:; तया परया प्रकृत्यैवेदं भूम्यादि- जगत् धार्यते इति विद्धि इति वाक्यार्थः । वक्ष्यति चाचार्य: त्रयोदशाध्याये द्वाविंशश्लोकव्याख्यानावसरे- 'प्रकृतिः, तद्वि- कारा घटपटादयः, चतुर्दशविधः सर्गः, तथा पुरुष: एतत्सर्वम् अनादि नित्यं च ब्रह्मतत्त्वाच्छुरितत्वे सति तदनन्यत्वात्' इति । प्रकृते च एतादृशपरप्रकृतिधृत्यभावे जगदिदमन्धमधृतमुत्सी- देत् इति तात्पर्यम् ।। - Page 151. After line 9 add : इच्छाशक्त्यात्मनि सकल- तत्त्वातीते इति । तथा चात गीतापद्ये द्वादशे मूर्धन्शब्दः