पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/४०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

346 एवं सप्तम्यर्थे द्वितीया इत्यपि वक्तुं शक्यम् | अत आह- क्वायस्येत्यादिना | Page 60. To line 15 add : अत एवानुपदमेव वक्ष्यति 'य: सुखोपायं सिद्धिम् अपवर्ग वा प्रेप्सति' इति ।। - Page 66. Add after line 5 : संग्रह लोके योऽन्यत्वेनेत्यादि । तथा च वक्ष्यत्याचार्यः - 'यथा वेश्मान्तर्गतपुरुषस्य न गृह- गतैर्जीर्णत्वादिभिर्न योगः, एवं मम चक्षुरादिच्छिद्रगवाक्षनव- कालंकृतगेहगतस्य न तद्धर्मयोगः' इति (V, 16 ) । परन्स्विदं लोकदृष्टयैव । रहस्यविदामाशय स्त्विदानी मे वोपदर्शित आ- चार्येण || Page 96. Add after line 15 : अथवा, न वैदिकं समात वा, अग्निहोत्रादिकर्ममात्रं विवक्षितम्, परन्तु क्रियासामान्य- मेव । घटादि निष्पादयिता कुलालादिः तदीयाः क्रियाः दण्ड- चक्र भ्रमणादयः, तत्फलं घटादि इत्येतत् सर्वं प्रकृते विवक्षि तम् । सर्वस्यापि संविदन्तर्गतत्वात् इत्यभिप्रायः ॥ Page 116. To line 10 add : तेषां भासनोपपतौ द्रष्टृतायां परिपूर्णायामिति । अयमभिप्राय:- 'भावा भासन्ते' इति सर्वेषां नो विदितम् । भासमानतयैव भावानां तेषां द्रष्टृत्व निश्चेतव्यम् । 'यो यो भासते, स द्रष्टा, यथा अहम्' इति व्याप्तेः इति । अपि च भावांश्च मयि पश्यति इत्यादि व्याख्या- वचनेन अयमन्योऽव्यर्थः प्रकृतगीता श्लोकस्येति सूचितमिता- चार्येण । तथाहि - यो योगी सर्वत्रगं मां परमात्मानम् अहं- -