पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/३३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्ट।दशोऽध्यायः 269

सवभूतेषु इत्यादि सम्‌दाहूतमित्यन्तम्‌ । विभक्तषु, देव-

मनष्यादितया । पृथक्त्वेन, इह मे प्रीतिः इह मे देषः इत्यादि- बुद्धया । अहेतुकम्‌, कारणमविचार्यव अभि निवेशावेशवशात्‌ क्रोधरागादि ग्रहणं यत्‌ तत्तामससंज्ञम्‌ ।। २०-२२ ॥

नियतं सङ्करहितमरागद्रेषतः कृतम्‌ ।

अफलप्रेप्सुना कमं यत्‌ तत्‌ सात्विकमुच्यते । २३ ।। यत्तु कामेप्सुना कमे साहंकारेण वा पुनः ।

क्रियते क्लेशबहलं तद्राजसमिति स्मृतम्‌ ।! २४ ॥ अनुबन्धं क्षयं हिंसामनवेक्ष्य च पौरुषम्‌ । मोहादारभ्यते कमं यत्‌ तत्‌ तामसमुच्यते ।। २५ ।।

नियतमित्यादि तामसमुच्यते इत्यन्तम्‌ । नियतम्‌ -

कर्तव्यमिति । क्लेशैः अविद्यादयः बहुलं व्याप्तम्‌ । मोहात्‌ अभिनिवेशमयात्‌ ।। २३-२५ ॥

मुक्तसंगोऽनहंवादो धुत्युत्साहसमन्वितः ।

सिद्धचसिद्ध चोनिविकारः कर्ता सात्विक उच्यते ।।२६।, रागी कमंफलप्रप्सुलब्धो हिंसात्मकोऽशुचिः । हषंशोकान्वितः कर्ता राजसः परिकीत्यते ।। २७ ।। अयुक्तः प्राकृतः स्तब्धः शठो नेकृतिकोऽलसः । . विषादी दीघंसुत्रश्च कर्ता तामस उच्यते ।! २८ ।।

1. 9 बहुलः