पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/३२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

268 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता तव' 'सर्वभूतेषु' इत्यादिना श्लोकत्रयेण (श्लो. २०-२२) ज्ञानकरणस्य वैरूप्यमुक्तम् । अत एव 'येन' इति तृतीया । इयता च ज्ञानकरणसामान्यस्य स्वरूपमुक्तम् । 'नियतम्' इत्यादिना श्लोकत्रयेण (श्लो. २३-२५) कर्मणो ज्ञेयकार्यरूपस्य द्वैविध्यम्; ‘मुक्तसंगः' इत्यादिना श्लोकत्रयेण (श्लो. २६-२८) तु कर्तुद्विरूपस्य संक्षेपेण स्वरूपम्; करणविशेषस्य स्वरूपभेद- प्रतिपादनार्थं [ 'प्रवृत्तिम्' इत्यादिना श्लोकत्रयेण (३०-३२ ) ] बुद्धेस्त्रैविध्यं निरूपितम् । तद्द्वारेण करणान्तराणामपि त्रैविध्यमुपलक्षितम् । करणस्य तु इतिकर्तव्यतापेक्षित्वात् इति- कर्तव्यतायाश्च धृत्यादिपञ्चकरूपत्वेऽपि, श्रद्धायाः पूर्वमुक्तत्वात्, विविदिषाविविदिषयोश्च धृतिसुखाभ्यामाक्षेपात् तयोस्त्रै- विध्यम् 'धृत्या यया' इत्यनेन [ श्लोकत्रयेण (३३-३५)] 'सुखं त्विदानीम्' इत्यनेन[श्लोकत्रयेण (३६-३९)] चोक्तम् । तदाह- सर्वभूतेषु येनैकं भावमव्ययमीक्षते । अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ||२०|| पृथक्त्वेन तु यज्ज्ञानं नानाभावान् पृथग्विधान् । वेत्ति सर्वेषु भूतेषु तद्राजसमिति स्मृतम् ॥ २१ ।। यत्त्वकृत्स्नविदेकस्मिन् कार्ये सक्तमहेतुकम् । अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् ॥ २२ ॥ 1. S adds शरीरे after तत्र 2. B, N record an alternative reading सामर्थ्यस्य for सामान्यस्य by saying सामर्थ्यस्येत्यन्यादर्श S-विध्यमुपलक्षितम् 3.