पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/३२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशोsध्याय: ज्ञानं ज्ञेयं परिज्ञाता विविधा कर्मचोदना । करणं कर्म कर्तेति विविधः कर्मसंग्रहः ॥ १८ ॥ ज्ञानमिति । कर्मणि चोदना प्रवृत्तीच्छा । तत्समये ये- षाम् अबोधमातनिष्ठत्वात् ज्ञानज्ञेयज्ञातृश्रुतिवाच्यता, तेषा- मेव सम्यग्ग्रहणरूपं यत् फलाभिसंधानेन आत्मीयबुद्धया स्वीकरणम्, 'अहमेतत् भोक्ष्ये, यतो मया कृतम्' इत्येवं रूपम् ; तत्समये तथा निर्वर्त्तनावसरे करणकर्मकर्तृशब्दाभिधेयत्वम्, आविष्टत्वात् । अतो योगिनाम् आवेशो नास्तीति तान् प्रति करणादिगिरां प्रसङ्गो नास्ति, अपि तु ज्ञानादिमात्रे एव [इति ] तात्पर्यम् ॥ १८ ।। अथैषां षण्णामपि संक्षेपेण 'गुणभेदात् भेदं दर्शयितुमाह- ज्ञानं कर्म च कर्ता च विधैव गुणभेदतः । प्रोच्यते गुणसंख्याने यथावच्छृणु तान्यपि ॥ १९ ॥ 267 ज्ञानमिति । गुणानां संख्यानं निश्चयो यत्र, तत्र सांख्यीयकृतान्ते ज्ञानादिविविधमुच्यते यत्, तच्छृणु इति संगतिः । 'ज्ञानम्' इत्यनेन ज्ञाने क्रियायां च यत् करणं तत् द्विविधमुक्तम् । एवं 'कर्म' इति ज्ञेयं कार्यं च; 'कर्ता' इति ज्ञाता कर्ता चेति ।। १९ ।। 1. B - वाच्यतया 2. Kज्ञ नमात्र एव 3. B omits गुण- 4. B, N, Komit कर्तेति