पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/३३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता मुक्तसङ्ग इत्यादि तामस उच्यते इत्यन्तम् । अहं कर्ता इति न वदन्, तच्छीलः, तद्धर्मा', तत्साधुकारी वा यो न2 भवति इति अनहंवादी इति । अनेन णिनिना व्यवहारमात- संवृत्तिवशेन योगिनोऽपि 'अहं करोमि' इति वचो न निषिद्धम् । हर्षशोकान्वितः,सिद्ध्य सिद्धयोः । निकृतिः नैर्घृण्यम् ।।२६-२८।। 270 बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु । प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय ॥ २९ ॥ बुद्धेरिति । बुद्धिः निश्चयः । धृतिः सन्तोषः । सर्वो हि सुकृतं दुष्कृतं वा कृत्वा अन्ते 'अवश्यं कृतं करणीयं, किम- न्येन'3 इति धियं गृह्णाति । अन्यथा क्रियाभ्यो व्युपरमे को हेतुः स्यात् ? अतः सर्वस्यैव धृतिरस्तीति तात्पर्यार्थ: । पदार्थस्त्व- प्रसिद्धो व्याख्याय (स्य ) त एव ।। २९ ।। प्रवृत्ति च निवृत्ति च कार्याकार्ये भयाभये । बन्धं मोक्षं च या बुद्धिर्वेद सा सात्त्विकी मता ॥३०॥ यया धर्ममधर्मं च कार्यं चाकार्यमेव च । अयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी ॥ ३१ ॥ अधर्मं धर्ममिति या बुद्धचते तमसान्विता । सर्वार्थान् विपरीतांश्च बुद्धिः सा तामसी मता ॥ ३२॥ प्रवृत्तिमित्त्यादि तामसी मतेत्यन्तम् । अयथावत् - अस- म्यक् ।। ३०-३२ ॥ 1. 2. 3. N तद्धर्मः S न यो भवति; B, N, K omit न SN किमनेन