पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/३२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तदशोऽध्यायः -TM 'सर्वकर्मा सर्वकामः' इत्यारभ्य 259 Fies 'सर्वमिदमभ्यात्तः अवाकी अनादर:' (छा.उ. III, iv, 2 ) इति श्रुतिः ब्रह्म प्रतिपादयति । सर्वकर्मकर्तृत्वसर्वकामत्व- हेतुना सर्वमिदं जगदभितः सर्वतः आत्तो व्याप्त आत्मा, अवाप्त- ईप्साजिहासाप्रयुक्त विधिनिषेधवाग्ररहितः समस्तकामत्वात् तथा आदरेण संभ्रमेण रहितश्चेति तदर्थात् । अप्राप्तस्य ईप्सितस्य प्राप्तव्ये, प्राप्तस्य कस्यचित् हातव्ये वा संभवति ईप्साजिहासाप्रयुक्ता वाक् च आदरश्च । आप्तसमस्तकामस्य नित्यतृप्तस्याचलस्येश्वरस्य तौ न कथंचित् संभवत इति भावः । स्वाभाविक इति। स्वभावनियत इत्यर्थः । वक्ष्यति च- स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् । (XVIHI, 48 ) इति । तस्मात् कर्तव्यमिदमित्यादि । अनेन तस्मादोमित्या- "दिसार्धपद्यत्रयस्य तात्पर्यं संगृह्यते । तत्र च कर्तव्यमिदमिति मन्वाना इत्यनेन पूर्वोक्त ओमर्थः, फलविशेषमनभिसन्दधाना ( इत्यनेन पूर्वोपदर्शितः तदिति निर्देशस्यार्थः, यज्ञादीत्यनेन सदर्थश्च प्रदर्शितः । 'यज्ञो हि श्रेष्ठतमं कर्म' इति श्रुतेः । तत्र ओमित्यनेनेत्यादिना ग्रन्थेन त्रयाणामपि निर्देशानां प्रकृतानामर्थ विशेषयोगो यज्ञदानतपस्सु प्रदर्शित: । परन्तु ओं तत् सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः इति ओमित्या- दीनां ब्रह्मनिर्देशत्वेनैवोपक्रमः कृतः । एतान् ब्रह्मनिर्देशानु-