पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/३२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

260 श्रीमद्भगवद्गीता गीतार्थ सङ्ग्रहोपेतः दाहृत्यैव यज्ञदानतपःक्रियाः क्रियन्ते ब्रह्मवादिभिर्मोक्षकांक्षि- भिरित्यपि प्रदर्शितम् । भगवती श्रुतिरपि 'तमेवं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसा' (बृ. उ. IV, iv, 22 ) इति यज्ञदानतपसां ब्रह्मतत्त्वज्ञानसाधनभावं दर्शयति । एवं च •ओमित्यादीनां मुख्यतया वृत्तिः ब्रह्मणि, तत्प्राप्त्यर्थेषु यज्ञदान- तपस्सु केनापि गुणयोगेनेति पर्यवसितम् । तस्मात् तेषु प्रथमं साधकानां कृते अर्थयोगं दर्शयित्वा इदानीमत्यावश्य- कत्वात् ब्रह्मणि ओमित्यादीनामर्थयोगं दर्शयति- यदि वेत्या- दिना । समुपशान्तसमस्तप्रपञ्चमिति । ब्रह्मेति शेषः । 'अव्यवहार्यः प्रपञ्चोपशमः शिवोऽद्वैत एवमोङ्कार आत्मैव' (मा. उ. 12) इति । ओमित्यनेन तथा च श्रुतिः - तदित्यनेन त्यनुवर्तते । • इच्छास्वातन्त्र्य स्वभावमिति । ब्रह्म- इत्यारभ्य .... 'सोऽकामयत । बहुस्यां प्रजायेयेति' (तै.उ. II, 6) इति श्रुतिषु तच्छब्दवाच्यस्य ब्रह्मणः विश्वसृष्टीच्छास्वातन्त्र्य- स्वभावप्रतिपादनात् । सदित्यनेनेत्यादि - 'सदेव सौम्येदमग्र आसीत्' (छा. उ. VI, ii, 1 )