पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/३१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता (व्या) ओमित्यनेन शास्त्रार्थोऽयमादेहसंबन्धमूरीकार्य इति सूच्यत इति । ओमित्यस्य ऊरीकरणार्थो लोकप्रसिद्धः । तद्वा [ओमिति ] एतदनुज्ञाक्षरं यद्धि किंचनानुजानाति ओमित्येव तदाह (छा. उ. I, i, 8 ) इति श्रुतेश्च । शास्त्रार्थोऽग्निहोत्रादिः आदेहसंबन्धमनुष्ठेयत्वेन यावज्जीवमग्निहोत्रं जुहोति- इति श्रुतिचोदित ओंकारोच्चारणपूर्वकमूरीक्रियत इति श्रुति- रेवाह- 258 ओमिति ब्रह्मा प्रसौति । ओमित्यग्निहोत्रमनुजानाति (तै. उ. I. 8) इति । अधिकन्तु अङ्लभाषानुवादविचारे । तत् इति सर्वनामपदेन ब्रह्मणि उच्यत इति । ब्रह्म उच्यते इति यावत् । 'ओं तत् सदिति निर्देशो ब्रह्मण इति मूलानुरोधात् । यथाहुः- तदिति सर्वनाम, सर्वं च ब्रह्म, तस्य नाम तत् इति (गीता II, 16, शाङ्करभाष्यम् ) एवं च फलानभिसंधानमिति ब्रह्मविशेषणम् बोध्यम् । फलस्य अनभिसंधानम् अभिसन्धानाभावो यस्मिस्तत् इति बहुव्रीहिः । सकलफल [भि ] सन्धाने सर्वकृतायामपि विशेषफला- योगात् इति । अत एव --