पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/३१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 सप्तदशोऽध्यायः 257 श्लो. १७-१९ (व्या) तन्मयी इति । तपोमयी इति सत्त्वमयी इति वा अर्थः । Mily श्लो. २०-२२ (व्या) दोषाभिसंधानायेति । नियोगा- परिपालने यद् दोषाणामभिसन्धानं निश्चयः, अभितः सर्वतः सन्धानं संघट्टनं संबन्धो वा, तं दूरीकर्तुमित्यर्थ: । 'क्रियार्थोप- पदस्य कर्मणि स्थानिनः' (PA, II, ii, 14) इति चतुर्थी । अथवा दोषानभिसंधायेति विवक्षितमिव । नियोगस्या- परिपालने दोषान् परिचिन्त्य, दातव्यमिति यद्दीयते इत्य- न्वयः । अथवा दोषानभिसन्धायेति उत्तरान्वयि । 'अदाने जना मयि दोषान् ब्रूयुः' इति दोषं विचिन्त्य तत्परिहाराय परिक्लिष्टम् अत्यन्तं क्लिष्टमित्यर्थः ।। श्लो. २३ (मू) ब्रह्मणा तेनेति पाठो रामकण्ठीय: समादृतः । तेनेति तच्छब्दार्थः उक्तनिर्देशत्रयम् । तृतीयार्थः करणत्वम् । तस्य ब्रह्मणेति तृतीयार्थकर्तृत्वस्य च विहिता इत्यनेनान्वयः । ओंकारेण वेदादयो विहिता इत्यस्मिन्नर्थे वर्तते श्रुतिः - 'ओमित्येदक्षरम्तेनेयं त्रयो विद्या वर्तते (छा.उ. तदुपरि शाङ्करं भाष्यं च-- तेनाक्षरेण प्रकृतेन [ ओंकारेण ] इयमृग्वेदादिलक्षणा तयोविद्या, तयीविद्याविहितं कर्मेत्यर्थः • वर्तते, प्रवर्तते । I, i, 1 & 8) गीता- 17