पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/३१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

256 श्रीमद्भगवद्गीता गीतार्थं संग्रहोपेता यत् अचेतन मिति, तन्न जडापरपर्यायम् । भूतग्रामे जडत्वस्य लोकप्रसिद्धत्वेनोक्तविशेषणस्यानतिप्रयोजनत्वात्, अनुपदेष्ट- व्यत्वाच्च । वस्तुतः शिवाद्वैतवादिन आचार्यस्य दृष्ट्या सर्वस्यापि चराचरात्मकप्रपञ्चस्य चेतनावत्त्वेन वस्तूनां चेत- नाचेतनविभागानभ्युपगमात्, विभावितचैतन्यवत्त्वाविभावित- चैतन्यवत्वाभ्यामेव विभागात् । अतस्तात्पर्यमाह - अचेतनम् अविवेकित्वादिति । भूतग्राम: अचेतन इति लोकप्रसिद्धिः तस्य प्रसिद्धचेतनावत्सु दृश्यमान विवेकज्ञानाभावप्रयुक्ता न तु वस्तुतश्चेतनाभावप्रयुक्तेति भावः । यद्वा भूतग्रामस्याचेतनत्वं लौकिकानां दृष्चैव । कुत? तेषां विवेकज्ञानशून्यत्वादिति । शास्त्रार्थं सम्यगज्ञात्वा तपआद्यनुष्ठाने आत्मन: क्लेश एव फलम्, न तु फल विधिनिर्दिष्ट मिति तात्पर्येण भगवता मां कर्शयन्त इत्युक्तमित्याह मां चेत्यादिना || श्लो. १० (मू) पूति इति पूयी दुर्गन्धे इति भ्वादेर्धातोः क्विपि रूपम् ।। श्लो. ११-१३ (व्या) 'मनः समाधाय तु शीघ्रगामिनम्' (वाल्मीकि सुन्दर. vii, 5, MLJ Press ) इत्यादौ मनः समा- धायेत्यस्य मनोऽभित्रायानुसारमित्यर्थपरत्वदर्शनात् प्रकृतोप- योगं तदर्थमाह - निश्चयेनानुसंधायेति । यष्टव्यपदसाहचर्यात्त मनः पदं निश्चयात्मकबुद्धिपरमिति भावः । निश्चयेनेति तृतीयार्थः अभेदः अनुसंधानेऽन्वेति । तथा च यष्टव्यमिति निश्चयात्मक- मनुसंधानं कृत्वेति पर्यवसितार्थः ।। -