पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/३१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तदशोऽध्यायः 255 अश्रद्धयेति । असदिति - अप्रशस्तम् । तस्मात् प्रशस्ते कर्मणि यतमानानां सुखेनैव भवति शिवम् इति ।। २८ ।। ।। शिवम् ।। अत्र संग्रह श्लोकः- स एव कारकावेश: क्रिया सैवाविशेषिणी । तथापि विज्ञानवतां मोक्षार्थे पर्यवस्यति ॥ ॥ इति श्रीमहामाहेश्वराचार्यवर्यराजानकाभिनवगुप्तपादविर- चिते श्रीमद्भगवद्गीतार्थसंग्रहे सप्तदशोऽध्यायः ॥ ।। श्रीमद्भगवद्गीतार्थसंग्रहटिप्पणी || श्लो. १ (व्या) वर्तन्ते इति मूलस्य तात्पर्यार्थमाह- व्यवहारमाचरन्तीति । रामकण्ठोऽप्याह 'वर्तन्ते, क्रियासु व्यवहरन्ति' इति ॥ श्लो. २ (व्या) पक्षपातेत्यादि । पक्षपातेन आ ईषदपि अथवा समन्तात् पूर्णतया वा रूषिता या बुद्धि: तत्पूर्वकत्व- विहीना॑मत्यर्थः । तीर्थफल मिति । तीर्थम् आगम: शास्त्रम्, तदुपदर्शित- फलमित्यर्थः । यद्वा तीर्थं पुण्यतीर्थम्, तत्प्रयोज्यफलमित्यर्थः । 'निपानागमयोस्तीर्थमृषिजुष्टजले' इत्युभयवाप्यमरः (III, iii, 86) ।। श्लो. ४-६ (व्या) अचेतनम् अविवेकित्वादिति । आ- चार्यस्यात्रायमाशय इव - मूले षष्ठे पद्ये भूतग्राम विशेषण