पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/३०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षोडशोऽध्यायः आसुरी योनिमापन्ना मूढा जन्मनि जन्मनि । मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् । २० ।। आत्मसंभाविता इत्यादि गतिमित्यन्तम् । यज्ञैर्यजन्ते नाम, निष्फलमित्यर्थ: । क्रोधेन हि सर्वं नश्यतीत्यर्थ: । यहा नामयज्ञैः, संज्ञामात्रेणैव ये यज्ञाः तैः । अथवा - नामार्थं प्रसिद्धयर्थं ये यज्ञा: 3- येन + "यज्ञयाजी अयम्' इति व्यपदेशो जायते - ते दम्भपूर्वका एव, न तु फलन्ति । क्रोधादिरूषि- तत्वादेव लोकान् द्विषन्तो मामेव द्विषन्ति । अहं वासुदेवो हि सर्वावासः । आत्मनि च द्वेषवन्तः आत्मनो' ह्यहितं निरय- पातहेतुम् आचरन्ति । तांचाहम् आसुरीष्वेव योनिषु - क्षिपामि ।। १७-२० ।। त्रिविधं नरकस्थेदं द्वारं नाशनमात्मनः । कामः क्रोधस्तथा लोभस्तस्मादेतत् वयं त्यजेत् ॥ २१॥ एतैवियुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः । आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ॥ २२ ॥ त्रिविधमिति । एतैरिति । यतः कामादिकं वयं नर- कस्य द्वारं, तस्मात् एतत् त्यजेत् ।। २१-२२ ।। -1. S,B omit एव. 2. S,B omit à: 3. 4. 5. 6. 7. N faaaa 243 B omits ये यज्ञाः Somits येन B आत्मने S उपाचरन्ति