पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/३०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता चिन्ता तेषां एतामित्यादि अर्थसंचयानित्यन्तम् । प्रलयान्ता अविरतं (ता) संसृतिप्रलयाव्युपरमात् । एतावदिति- कामोपभोग एव परं (परमं) कृत्यम् [एषाम्]; तन्नाशाच्च परं क्रोध: । अत एवाह 'कामक्रोधपरायणाः' इति ।। ९-१२।। 242 इदमद्य मया लब्धमिदं प्राप्स्ये मनोरथम् । इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥ १३ ॥ असौ मया हतः शत्रुर्हनिष्ये चापरानपि । ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान् सुखी ॥ १४ ॥ आढचोऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया । यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ।। १५ ।। अनेकचित्ता विभ्रान्ता मोहस्यैव वशं गताः । प्रसक्ताः कामभोगेषु पतन्ति निरयेऽशुचौ ॥ १६ ।। इहमद्येत्यादि अशुचौ इत्यन्तम् । अनेकचित्ता इति- निश्वयाभावात् । अशुचौ निरये, अवीच्यादौ, जन्ममरण- सन्ताने च ।। १३-१६ ।। आत्मसंभाविताः स्तब्धा धनमानमदान्विताः । यजन्ते नाम यज्ञैस्ते दम्भेनाविधिपूर्वकम् ॥ १७ ॥ अहंकारं बलं दर्प कामं क्रोधं च संश्रिताः । मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥ १८ ॥ तानहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपाम्यजत्रमशुभास्वासुरीष्वेव योनिषु ॥ १९ ॥ 1. A अनेकचिन्ताः; N अनेकचित्तविना ता