पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/३०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्भगवद्गीता गोतार्थसंग्रहोपेता तु न चैतत् पुरुषवचनमित्यनादरणीयम्, अपि अनादि- शास्त्रमत्र प्रमाणम् इत्युच्यते- 244 यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः । नस सिद्धिमवाप्नोति न सुखं न परां गतिम् ।। २३ ।। तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ । ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ॥ २४ ॥ ॥ इति श्रीमद्भगवद्गीतायां षोडशोऽध्यायः ॥ यः शास्त्रविधिमिति । तस्मादिति । शास्त्रविधि त्यजत स्वमनीषयैव कार्याकार्यविचारं कुर्वतः प्रत्युत नरकपातः । तस्मात् आत्मबुद्धया कार्याकार्यव्यवस्थां मा कार्षीः इति तात्पर्यम् [इति ] ॥ २३-२४ ।। ।। शिवम् ।। अत्र संग्रहश्लोकः- अबोधे स्वात्मबुद्धचैव कार्यं नैव विचारयेत् । किन्तु शास्त्रोक्तविधिना, शास्त्रं बोधविवर्धनम् ॥ ।। इति श्रीमहामाहेश्वराचार्यवर्य राजानकाभिनवगुप्तपाद- विरचिते श्रीमद्भगवद्गीतार्थसंग्रहे षोडशोऽध्यायः ।। 1. S, B, N add शास्त्र नमनुसृत्य after आत्मबुद्धया