पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चदशोऽध्यायः 237 अयमाशयः- यद्यपि शास्त्रं जगदन्तर्गतम् । तथापि तादृश- जगतोऽपि प्रवृत्तनिवृत्तेश्च निदानभूते प्रवृत्तिधर्मतत्त्वज्ञाने इति तदुपदेष्टृवेदवेदान्तकर्तृत्वमपि लोकानुग्रहाय पृथक्त्वेन ईश्वरे अवश्यं प्रदर्शनीयमिति । - तदुन्मूलनेनेति । तदुन्मूलनपूर्वक मित्यर्थः । यदि तदु- न्मूलने इति पाठ: स्यात् स साधीयान् ॥ श्लो. १६-१८ (व्या) अप्रबुद्धेत्यादि । अप्रबुद्धस्वभावः सर्वोऽपीत्यन्वयः । भूतानां जडत्वादिति । भुतानां पृथिव्यादीनामविभा- वितचैतन्यत्वादित्यर्थः । अक्षरमतीत इति । इदमाचार्यवचनमेवं सूचयतीव- यस्मात् क्षरमतीत इति पद्ये द्वितीयपादम् 'अतीतोऽक्षरमेव च ' इति, तत्समानमन्यद्वा किंचित् पपाठ आचार्य इति । अत्र प्रकृतं गीतापद्यत्रयम् अप्रबुद्धतादशायां यथा ईश्वर- तत्त्वं लोकवेदप्रसिद्धं तथा अनुवदतीत्याचार्याभिप्राय इति भाति ।। श्लो. १९ (व्या) खण्डितात्मभावस्य संमोहरूपत्वात् असंमूढ इति मूलस्याभिप्रायमाह - सर्वमयं मामेव इत्यादिना । सर्वविदित्यस्य व्याख्या सर्व मन्मयत्वेन विदन् इति । यः सर्व- मयत्वेनात्मानं जानाति, उपास्ते, स तुल्यवित्तिवेद्यतया सर्व- मात्मत्वेन वेत्ति इति तात्पर्यम् ।