पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

238 श्रीमद्भगवद्गीता गोताथसंग्रहोपेता सर्वभाषेत अभिप्रेता इति दर्शयति - मूत्तिक्रियाज्ञानात्मकेनेति । कायिकैन्द्रियिकमानसव्यापारा तव चेत्यादि । हे अम्बिके ! नः अस्मदीया तव विष- यिणी स्तुतिः काचन, अपूर्वा असाधारणी इत्यर्थः । यद्वा, नः अस्मदीया का च, का वा क्रिया तव विषयिणी स्तुतिः न ? इति प्रश्नो वा । अस्मदीयाः सर्वेऽपि व्यापारा: तव स्तुतिरूपा एवेति निश्चयः । तदेवोपपादयति सकलशब्दमयी इत्यादिना । TINCHA इति विचिन्त्येति । अत्र विचिन्तनस्तुत्यादिकर्मभ्या- मुन्नीतो यः कर्ता अस्मच्छब्दार्थः स समान इति उपपन्नं विचि- न्त्येति । तथा च विचिन्त्य स्थितस्य में मम स्तुत्यादिवजिता कालस्य कलापि काचन न खलु नैवेत्यन्वयार्थः ।। ॥ इति श्रीमद्भगवद्गीतार्थसंग्रहटिप्पण्यां पञ्चदशोऽध्यायः ।।