सामग्री पर जाएँ

पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता तत्त्राहमित्यादि । अत्रेदं तत्त्वम् - मूलस्थैः ज्ञानापोह- नस्मृतिशब्द: क्रमश: (१) 'तदैक्षत बहु स्यां प्रजायेय' (छा. उ. VI, ii, 3 ), 'सोऽकामयत । बहुस्यां प्रजायेयेति । स तपोऽ- तप्यत । स तपस्तप्त्वा । इदं सर्वमसृजत ।' 'विज्ञानं चा- विज्ञानं च । सत्यं चानृतं च सत्यमभवत्' (तै. उ. II, 6 ) इत्यादिश्रुत्युक्तरीत्या अहंविमर्शस्याखण्डितस्वातन्त्र्यस्य सर्वात्म- भवनज्ञानरूपा अपरिमिता सृष्टि:; (२) तथा बद्धात्मनां पशू- नां खण्डितस्वातन्त्र्याणाम् 'अहमेव चेतनः, अयं घटस्त्वचेतन एव' इति शब्दज्ञानमात्रानुपातिवस्तुशून्यप्राया खण्डिता सृष्टि:; (३) एवमेतेषामेव बद्धानां गुर्वागमाद्यनुग्रहेण उद्बुद्धपूर्व- वासनानाम् 'आत्मैवेदं सर्वम्' इति प्रत्यभिज्ञा च परामृश्यन्ते इत्याचार्यहृदयमिव । 236 वेदवेदान्तकर्तृत्वेन तथा उत्तरत्र एवं वेदम् इति च । आभ्यामेवं सूचितमिव भवति – प्रकृतगीताश्लोकतृतीयपादं 'वेदान्तकृद्वेदकृदेव चाहम्' इत्यार्च: पपाठेति । वेदवेदान्तशब्दा- भ्यां कर्मज्ञानकाण्डयोः परामर्शः । अत्रोच्यते 'जन्माद्यस्य यतः' (ब्र. सू. I, i, 2) इति सूत्रेणैव बादरायणेनाचार्येण ब्रह्मणि जगज्जन्मादिकारणत्वस्य निर्धारितत्वात्, जगदन्तर्गतानाम् ऋग्वेदादीनां शास्त्राणां कारणत्वस्य पुनरपि ब्रह्मणि प्रतिपादनपरं 'शास्त्रयोनित्वात् ' इति समनन्तरं सूत्रं पुनरुक्तप्रायमेवेति ये मन्यन्ते तान् उक्त- सूत्रद्वय समानयोगक्षेमे प्रकृते गीतापद्ये उपस्थितान् कृत्वा कटा- क्षयतीवाचार्यः वेदवेदान्तकर्तृत्वेनेत्यादिविलेखनेनेति भाति ।