पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्दशोऽध्यायः चित्तवृत्त्येति । सहार्थथ्रोगे तृतीया । वैगुण्यादन्यतमेति । त्रिगुणात्मकत्वाद्धेतोः त्रैगुण्येष्वन्य- तमेत्यर्थः ।। श्लो २२. ( व्या) धर्मेष्विति । धर्मतयेति विवक्षितमिव । अत एवाह अनुपदमेव 'केवलपिण्डधर्मतया' इति ।। श्लो. २३ (मू) एवेत्यप्यर्थे । श्लो. २३-२५ (व्या) यः अज्ञः स एव ज्ञः इति । तथा च 'योज्ञ' इति मूलस्य 'य: अज्ञः' इति, तथा 'यः ज्ञः ' इति चोभयथा छेदो विवक्षित इति भावः ॥ श्लो. २६ (व्या) अत एव, फलप्रधानत्वादेव ॥ श्लो. २७ (व्या) जडरूपतयेति । न हि जडरूपं ब्रह्म; न वा जडत्वेनोपास्यमानं ब्रह्म मोक्षप्रदम्, तादृशोपासनाया वि- परीतज्ञानत्वेन बन्धकत्वात् । तस्मात् अत्रायमर्थो विवक्षितः- जडस्य रूपमिव रूपं यस्य तत्, तस्य भावः जडरूपता, तयेति । सन्मातरूपतयेति पर्यवसितार्थः । स्पष्टमग्रे || ॥ इति श्रीमद्भगवद्गीतार्थसंग्रहटिप्पण्यां चतुर्दशोऽध्यायः ।। गोता 15 225