पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ पञ्चदशोऽध्यायः ॥ श्रीभगवानुवाच - ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् । छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ।। १ ।। अधश्चोर्ध्वं प्रसृता यस्य शाखा गुणप्रवृद्धा विषयप्रवालाः । अधश्च मूलान्यनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके ॥ २ ॥ ऊर्ध्वमूलमिति । अधश्चेति । अनेन शास्त्रान्तरेषु यदु- च्यते 'अश्वत्थः सर्वं, स एवोपासनीयः' इत्यादि, तस्य भगवद्- ब्रह्मोपासा तात्पर्यमित्युच्यते । मूलं प्रशान्तरूपम् । तत् ऊर्ध्वं, सर्वतो हि निवृत्तस्य तदाप्तिः । छन्दांसि पर्णानि इति – यथा वृक्षस्य मानत्वफलवत्त्वसरसतादय:- पर्णै: सूच्यन्ते, एवं ब्रह्म- तत्त्वस्य वेदोपलक्षितशास्त्रद्वारिका प्रतीतिरित्याख्यायते । गुणैः, सत्त्वादिभिः प्रवृद्धाः, देवादिस्थावरान्ततया । शुभाशुभात्मकानि कर्माणि अधस्तनमूलानि ।। १-२ ।। तस्य च न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च संप्रतिष्ठा । अश्वत्थमेनं सुविरूढमूलम् असंगशस्त्रेण शितेन छिस्वा ॥ ३ ॥ 1. K प्रशान्तं रूपम् 2. S, B फलत्व- 3. B,N -मूलानि यस्य