सामग्री पर जाएँ

पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

224 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता (व्या) आत्मतयेति । आत्मा तयेति विवक्षितम् । अयमात्मा तया प्रकृत्या कर्जा सत्वादिमिर्चः करणै: निबध्यते इत्यन्वयः । अथवा निबद्धयते इति कर्मकर्तरि लकारः । तथा चाव्ययः परमात्मा देही सन् स्वयमेव बध्यते इति । तत्र हेतु आत्मतयेति । अप्रतिहतस्वातन्त्येण स्वयमेवेत्यर्थः ।। श्लो. ६-८ (व्या) मानुष्य कस्येति । स्वार्थे कन् । 'नैव जागरतः' इति परिमितनिद्रायाः योगसिद्धचुपयो- गिताया दर्शितत्वात् प्रकृते निद्राशब्दो यौगिक एवेति तमर्थं दर्शयति-कुत्सिता गतिर्निद्रा इति । द्रा कुत्सायां गतौ इत्यदादेर्धातोः प्रायशो निपूर्वकात् 'आतश्चोपसर्गे' (PA. III, i, 106) इत्याङि निष्पन्नो निद्राशब्द: कुत्सितगतिवाचकः ।। श्लो. ९ (मू) उतेति । उतापीत्यर्थः ॥ श्लो. ११ (मू) प्रकाशमिति क्रियाविशेषणम् । स्फुट- मित्यर्थः ॥ श्लो. २१ (मू) कैलिंङ्गैरिति 'इत्थंभूतलक्षणे' (PA, II, iii, 21) तृतीया । अथ वा 'धूमेन लिङ्गेन वह्निमान् पर्वत' इत्यादाविव प्रकृतेऽपि लिङ्गशब्दः अनुमानप्रयोगद्वितीयावयवा- त्मकहेतुपरः । हेतुत्वं च ज्ञानज्ञाप्यत्वम् भवत्यर्थे अस्तिताया- मन्वेति । तथा च किविषयकज्ञानज्ञाप्यास्तितावान् गुणातीत: ? इति पर्यवसितार्थ: । गुणातीतत्वं केन हेतुना ज्ञाप्यमिति यावत् । धन कैः, किम्, कथमिति वयमप्याक्षेपे । तदेव दर्शयति व्या- ख्याने वन्वित्यादिना ।