पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्दशोऽध्यायः अत्र संग्रहश्लोक:- लसद्भक्तिरसावेशही नाहंकारविभ्रमः । स्थितोऽपि गुणसंपर्दे गुणातीतः समो यतिः ॥ ॥ इति श्रीमहामाहेश्वराचार्य वर्य राजान काभिनवगुप्तपादविरचिते श्रीमद्भगवद्गीतार्थसंग्रहे चतुर्दशोऽध्यायः ॥ ।। श्रीमद्भगवद्गीतार्थसंग्रह टिप्पणी || श्लो. २ (मू) मम साधर्म्यम्- मत्स्वरूपम् । (व्या) तिप्रत्यय इति । झिप्रत्यय इत्यर्थः ॥ 223 - श्लो. ३ (मू) योनि: - जगदुत्पत्तौ निमित्तम् । गर्भम् चैतन्यम् । (व्या) बृह्मकेत्यादिना शक्तौ ब्रह्मपदयौगिकार्थसंबन्धो दर्शितः । बृहत्त्वमहत्त्वयोरनर्थान्तरत्वात् शक्तिरूपब्रह्मैव महत् ॥ 1. N faasfy 2. S, B, N यतः श्लो. ४ (मू) अत्र पूर्वार्धन लोकदृष्टयनुवादः, उत्त- रार्धेन तु तत्त्वप्रदर्शनम् । श्लो. ५ (मू) प्रकृतिसंभवाः - भगवच्छक्तिः योनिः प्रकृतिः ब्रह्मपदनिर्दिष्टा पूर्वतनपद्ययोः, तत्संभवाः । देहिनमित्यनेन अव्ययस्याप्यात्मनो बन्धप्राप्तौ हेतुर्दंशितः ।