पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रयोदशोऽध्यायः क्वचित् श्रुतौ 'क्षेत्रज्ञ उपास्यः' इति श्रूयते । स च कि- मात्मा, उत ईश्वरः अथ तृतीयः कश्चिदन्य एव? इति प्रश्ना- शङ्कायाम् - श्रीभगवानुवाच- इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते । एतद्यो वेद तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥ १॥ क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत । क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ २ ॥ श्रीभगवानादिशति- इदमिति, क्षेत्रज्ञमिति । संसारिणां शरीरं क्षेत्रम्, यत्र कर्मबीजप्ररोहः । अत एव तेषामात्मा आगन्तुककालुष्यरूषितः क्षेत्रज्ञ उच्यते । प्रबुद्धानां तदेव क्षेत्रम्। अन्वर्थभेदस्तु तद्यथा - क्षिणोति कर्मबन्धमुपभोगेन, त्रायते जन्ममरणभयात् इति । तांश्च प्रति परमात्मा वासदेवः क्षेत्रज्ञः। एतत्क्षेत्रं यो वेद, वेदयति इत्यन्तर्भावितण्यर्थो विदिः । तेन यत्प्रसादादचेतनमिदं चेतनीभावमायाति स एव क्षेत्रज्ञो नान्यः कश्चित् । विशेषस्तु परिमितव्याप्तिकं रूपमालम्ब्य आत्मेति भण्यते; अपरिच्छिन्न सर्वक्षेत्रव्याप्त्या परमात्मा भगवान् वासु- देवः । ममेति कर्मणि षष्ठी; अहमनेन ज्ञानेन ज्ञेयः इत्यर्थः ।।१-२।। 1. S, B वासुदेवाख्यः 2. S,N यो वेदयति । वेबेत्यन्तर्भा-; B यो वेदयति अन्तर्भा- 3. N – व्यर्थोऽव