सामग्री पर जाएँ

पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रयोदशोऽध्यायः तत्क्षवं यच्च यादृक् च यद्विकारि यतश्च यत् । स च यो यत्स्वभावश्च तत्समासेन मे शृणु ॥ ३ ॥ ऋषिभिर्बहुधा गीतं छन्दोभिविविधैः पृथक् । ब्रह्मसूत्रपदैश्चैव हेतुमद्भिविनिश्चितम् ॥ ४ ॥ 205 तत्क्षेत्रमिति । ऋषिभिरिति । येन विकारं गच्छति यद्- विकारि । समासेनेति अविभागेनैव सर्वान्प्रश्नान् साधारणो- त्तरेण परिच्छिनत्ति । यद्यपि च ऋषिभिर्बहुधा वेदैश्चोक्त- मेतत् । तथापि समासेनाहं व्याचक्षे इति ।। ३-४ ।। महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च । इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ॥ ५ ॥ इच्छा द्वेषः सुखं दुःखं संघातश्चेतना धृतिः । एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥ ६ ॥ महाभूतानीति । इच्छेति । अव्यक्तम् प्रकृतिः । इन्द्रि- याणि मनसा सह एकादश । इन्द्रियगोचरा: रूपादयः पंच | चेतना दृक्छक्तिः पुरुषः । धृतिरिति 2 अन्ते किल सर्वस्य आ ब्रह्मणः क्रिमिपर्यन्तस्य प्रारब्धे निष्पन्ने वा कार्ये कामक्रोधा- दिषु च 'इयतैव मम पर्याप्तं, किमन्येन ? ईदृशश्वाहं नित्यमेव भूयासम्' इति प्राणसन्धारिणी| धृतिः आश्वासनात्मिका पर रहस्यशासनेषु रागशब्दवाच्या जायते ।। ५-६ ॥ एवं क्षेत्रं व्याख्यातम्, क्षेत्रज्ञश्च । इदानीं ज्ञानमुच्यते- 1. S, B, K एतान् (S तान्) प्रश्नान् B, N अवान्ते किल 2 1. S,N - संधारणी; B-साधारणी -