202 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता 11 श्रीमद्भगवद्गीतार्थसंग्रह टिप्पणी | श्लो. १. (व्या) सेश्वरब्रह्मोपासक इति । ऐश्वर्य विशिष्ट ब्रह्मो- पासका इत्यर्थः । वक्ष्यति चानुपदमेव माहेश्वर्यविषयो येषां समा- वेश इति । ऐश्वर्यं चात्र जगत्कर्तृत्वादि । अक्षरमिति मूलस्य व्याख्यानम् आत्ममात्रमिति। न क्षरति, न स्पन्दते, सृजति वा विश्वमिति अक्षरम्, निर्गुणम् अनुत्तरम् इत्यर्थ: । क्षर संचलने स्रवणे च इति धातुपाठात् ॥ श्लो. ३.५ (व्या) आत्मानं सर्वत्रगम् इत्यादिभिरिति । तैरपीत्यादिः । अक्षरब्रह्मोपासकै र पीत्यर्थः ॥ श्लो. ६-८ (व्या) विशिष्टकरणेत्यादि स्तोत्रपद्ये 'संवे- द्यते' इति कर्मणि लकार: स्वार्थ कर्मत्वाश्रयतया प्रथमान्तमेक- वचनमेकं पदमपेक्षते । एवं च, अपि नामास्मिन् पद्ये चतुर्थपादे संनिधौ इत्यस्य स्थाने 'संनिधिः' इति विवक्षितम् ? यद्येवं, तदा 'इहापि चित्यां वितयसंनिधिः संवेद्यते यतः" इत्यन्वयः । अथ वा 'सा' इत्यर्थात् सिद्धम् । सा चितिः इह वितयसंनिधौ अपि, तत्संनिधावेव संवेद्यते इत्यन्वयः ॥ श्लो. १२ (व्या) तत्फलत्वादिति । तत्फलकत्वादित्यर्थः ॥ श्लो. २० (मू) धर्मामृतमिति रामकण्ठीयः पाठः । 617. (व्या) अनिकेत इति । निपूर्वः केतधातुः चुरादि: वि- मन्त्रणे वियोगकरणे नियमकरणे वर्तते इति कृत्वा तात्पर्यार्थ- माह इदमेबेत्यादिना इति प्रतिभाति ।
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२६३
दिखावट