पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वादशोऽध्यायः यो न हृष्यति न द्वेष्टि न शोचति म कांक्षति । शुभाशुभफलत्यागी भक्तिमान् यः स मे प्रियः ॥ १७॥ समः शत्रौ च मित्रे च तथा मानापमानयोः । शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥ १८ ॥ तुल्यनिन्दास्तुतिमौनी सन्तुष्टो येन केनचित् । अनिकेतः स्थिरमतिर्भक्तिमान् मे प्रियो नरः ॥ १९ ॥ ये तु धर्मामृतमिदं यथोक्तं पर्युपासते । श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ॥ २० ॥ ॥ इति श्रीमद्भगवद्गीतायां द्वादशोऽध्यायः ॥ - यस्मादित्यादि मे प्रिया इत्यन्तम् | अनिकेतः - 'इदमेव मया कर्तव्यम्' इति यस्य नास्ति प्रतिज्ञा । यथाप्राप्तहेवाकि- तया सुखदुःखादिकमुपभुञ्जानः परमेश्वरविषयसमावेशित हृदयः सुखेनैव प्राप्नोति परमकैवल्यम् इति ।। १५-२० ।। ॥ शिवम् ॥ अत्र संग्रहश्लोक:- 201 परमानन्द वैवश्य संजातावेशसंपदः । स्वयं सर्वास्ववस्थासु ब्रह्मसत्ता ह्ययत्नतः ॥ इति श्रीमहामाहेश्वराचार्यवर्य राजानकाभिनवगुप्तपादविरचिते श्रीमद्भगवद्गीतार्थसंग्रहे द्वादशोऽध्यायः ।। 1. S सेयम् -