पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

194 श्रीमद्भगवद्गीता गौतार्थसंग्रहोपेता ॥ श्रीमद्भगवद्गीतार्थसंग्रहटिप्पणी ॥ श्लो. १८ (व्या) मेदाप्रतिमासात्मकमिति । इदं च तत्त्व- ज्ञानार्थकतत्त्वपदेवान्वेति । सत् सत्यमित्यादि । तदुक्तम्- 'सत्त्वं (च्च ) सत्त्वाश्रयं सत्त्वगुणं सेवत केशवम् । योऽवन्यत्वेव मनसा सात्त्वतः समु ( उ ) दाहृतः ॥ विहाय काम्या [न्] कर्मादीन् भजेदेकाकिनं हरिम् । सत्यं सत्त्वगुणोपेतो भक्त्या तं सात्त्वतं विदुः ।।' - पाद्मोत्तरखण्डे ९९ अध्याये, (शब्दकल्पद्रुमे उद्धृतम्) सात्वता इति । सत्वन्तः, त एवेत्यादिः । अधिकमन्यत्न । गोपायते इति । गुपू रक्षणे भ्वादिः परस्मैपदे पठितः ॥ श्लो. ३४-३५ (व्या) शुद्धाशुद्धेत्यादि शुद्धाशुद्धमिश्रात्म- कसंविदा बलेन ग्रासीकारादिति विग्रहः । समर्थेभ्योऽस्तु । समर्थेभ्यस्तु इत्येव वा विवक्षितमिव । श्लो. ३८ (व्या) न परब्रह्मसत्ताव्यतिरिक्तः इति । न परब्रह्मसत्ताव्यतिरिक्तसत्ताक इत्यर्थः ।। श्लो. ४१ (व्या) इत्यनेन पौनःपुन्यमिति । तृतीयार्थी- ऽभेदः । इत्येतदात्मकं पौतःपुन्यमित्यर्थः ।। पलो. ४४ (मू) सत्समक्षमिति रामकण्ठीयः पाठः समा- दृतः । सतां संनिधाविति तदर्थः ॥