पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकादशोऽध्यायः नाहं वदैर्न तपसा न दानेन न चेज्यया । शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ॥ ५८ ॥ भक्त्या त्वनन्यया शक्यो ह्यहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप । ५९ ॥ मत्कर्मकृन्मत्परमो मद्भक्तः संगवर्जितः । निर्वेरः सर्वभूतेषु यः स मामेति पाण्डव || ६० ॥ ॥ इति श्रीमद्भगवद्गीतायामेकादशोऽध्यायः ।। भक्त्येति । मत्कर्मेति । अविद्यमानान्यज्ञेयरमणीया येषां भक्तिः परिस्फुरति तेषां ['ज्ञानवान्] मां प्रपद्यते । वासुदेवः सर्वम्' (Gita VII, 19) इत्यादिपूर्वाभिहितोपदेशचमत्कारात् विश्वात्मकं वासुदेवतत्त्वम् अयत्नत एव बोधपदवीमवतरति इति ।। ५९-६० ।। 193 ।। शिवम् || अत्र संग्रहश्लोक:- शुद्धाशुद्धवि मिश्रार्थ' संविदैक्यविमर्शनात् । भूर्भुवस्वस्त्रयं पश्यन् समत्वेन समो मुनिः ।। ।। इतिश्रीमहामाहेश्वराचार्यवर्य राजानकाभिनवगुप्तपादविरचिते श्रीमद्भगवद्गीतार्थसंग्रहे एकादशोऽध्यायः || - 4. B,N त्रयों गीता- 13 1. B,N omit मां प्रपद्यते 2. S - विमिषोर्थ, K -मिश्रोत्य 3. S, B, N प्रकाशनात् । S also gives an alternative reading विवेचनात् ।