पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

192 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता न वेदयज्ञाघिगमैर्न दानै- र्न च क्रियाभिर्न तपोभिरुग्रैः । एवंरूपं शक्यमहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर ॥ ५३ ।। मा ते व्यथा मा च विमूढता भूद् दृष्ट्वा रूपं घोरमुग्रं ममेदम् । व्यपेतभी: प्रीतमनाः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य ॥ ५४ ॥ संजय उवाच- इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः । आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा ॥ ५५ ॥ अर्जुन उवाच- दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन । इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ॥ ५६ ।। दृष्ट्वेति । सकलोपसंहारान्ते परमप्रशान्तरूपी ब्रह्म तत्त्वस्थिति ददाति इत्युपसंहारो भगवतः सौम्यता ।। ५६ ।। श्रीभगवानुवाच - सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम | देवा अध्यस्य रूपस्य नित्यं दर्शनकांक्षिणः ॥ ५७ ॥ 1. S सकल: संहारान्ते