पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकादशोऽध्यायः तवाद्भुतं किं नु भवेदसह्यं किं वा शक्यं परतः कीर्तयिष्ये । कर्तास्य सर्वस्य यतः स्वयं वै विभो ततः सर्वमिदं त्वमेव ॥ ४८ ॥ अत्यद्भुतं कर्म न दुष्करं ते कर्मोपमानं न हि विद्यते ते । न ते गुणानां परिमाणमस्ति न तेजसो नापि बलस्य नः ॥ ४९ ॥ अदृष्टपूर्व हृषितोऽस्मि दृष्ट्वा मयेन च प्रव्यथितं मनो मे । तदेव मे दर्शय देव रूप प्रसीद देवेश जगन्निवास ॥ ५० ॥ किरीटिनं गदिनं चक्रहस्त- मिच्छामि त्वां द्रष्टुमहं तथैव । तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते ।। ५१ ।। श्रीभगवानुवाच - मया प्रसन्न तवार्जुनेदं रूपं परं दर्शितमात्मयोगात् । तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वम् ॥ ५२ ॥ 191