पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

190 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता सखेति मत्वा प्रसभं यदुक्तो हे कृष्ण हे यादव हे सखे च । अजानता महिमानं तवेमं मया प्रमादात् प्रणयेन वापि ॥ ४३ ॥ यच्चावहासार्थमसत्कृतोऽसि बिहारशय्यासनभोजनेषु । एकोऽथवाप्यच्युत सत्समक्षं तत्क्षामये त्वामहमप्रमेयम् ॥ ४४ ।। पितासि लोकस्य चराचरस्य त्वमस्य विश्वस्य गुरुर्गरीयान् । न त्वत्समोऽस्त्यस्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रमितप्रभावः ॥ ४५ ॥ तस्मात्प्रणम्य प्रणिचाय कायं प्रसादये स्वामहमीशमीडयम् । पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियस्यार्हसि देव सोढुम् ॥ ४६ ॥ दिव्यानि कर्माणि तवातानि पूर्वाणि पूर्वेऽप्यृषयः स्मरन्ति । नान्योऽस्ति कर्ता जगतस्त्वमेको धाता विधाता च विभुर्भवच ॥ ४७ ॥